गणेश स्तोत्रम्
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं ।
भक्तावासं स्मरेन्नित्यं आयुष्कामार्थसिद्धये ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं ॥
लम्बोदरं पञ्चमं च षष्ठंविकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं ॥
नवमं फालचन्द्रं च दशमं तु विनायकं ।
एकादशं गणपतिं द्वादशं तु गजाननं ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
नास्ति विध्न भयं तस्य सर्वसिद्धिं लभेद्ध्रुवम् ॥
Comments
Post a Comment