गणेश स्तोत्रम् प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं । भक्तावासं स्मरेन्नित्यं आयुष्कामार्थसिद्धये ॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं ॥ लम्बोदरं पञ्चमं च षष्ठंविकटमेव च । सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं ॥ नवमं फालचन्द्रं च दशमं तु विनायकं । एकादशं गणपतिं द्वादशं तु गजाननं ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । नास्ति विध्न भयं तस्य सर्वसिद्धिं लभेद्ध्रुवम् ॥